|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.33. अध्यायः 033
अथानुगीतापर्व-2
Mahabharata - Ashvamedhika Parva - Chapter Topics
ब्राह्मणेन स्वभार्यांप्रति ममतावर्जनस्य पुरुषार्थसाधनतायां दृष्टान्ततया ब्राह्मणजनकसंवादानुवादः॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
ब्राह्मणि उवाच।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
ब्राह्मणस्य च संवादं जनकस्य च भामिनि॥ 14-33-1(93281)
ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागसि।
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत्॥ 14-33-2(93282)
इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम्।
आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः॥ 14-33-3(93283)
सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो।
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते॥ 14-33-4(93284)
इत्युक्तस्तु तदा राजा ब्राह्मणेन यशस्विना।
मुहुरुष्णं विनिःस्वस्य न किञ्चित्प्रत्यभाषत॥ 14-33-5(93285)
तमासीनं ध्यायमानं राजानममितौजसम्।
कश्मलं सहसाऽगच्छद्भानुमन्तमिव ग्रहः॥ 14-33-6(93286)
समाश्वास्य ततो राजा विगते कश्यमे तदा।
ततो मूहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत्॥ 14-33-7(93287)
पितृपैतामहे राज्ये वश्ये जनपदे सति।
विषयं नाधिगच्छामि विचिन्वन्पृथिवीमहम्॥ 14-33-8(93288)
नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया।
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया॥ 14-33-9(93289)
नाध्यगच्छं यदा तस्यां तदा मे कश्मलोऽभवत्।
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता॥ 14-33-10(93290)
तदा न विषयं मन्ये सर्वो वा विषयो मम।
आत्माऽपि चायं न मम सर्वा वा पृथिवी मम॥ 14-33-11(93291)
यथा मम तथाऽन्येषामिति मन्ये द्विजोत्तम।
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते॥ 14-33-12(93292)
ब्राह्मण उवाच। 14-33-13x(7850)
पितृपैतामहे राज्ये वश्ये जनपदे सति।
ब्रूहि कां मतिमास्थाय ममत्वं वर्जितं त्वया॥ 14-33-13(93293)
कां वै बुद्धिं समाश्रित्य सर्वो वै विषयस्तव।
नावैषि विषयं येन सर्वो वा विषयस्तव॥ 14-33-14(93294)
जनक उवाच। 14-33-15x(7851)
अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु।
नाध्यगच्छमहं तस्मान्ममेदमिति यद्भवेत्॥ 14-33-15(93295)
कस्येदमिति कस्य स्वमिति वेदवचस्तथा।
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत्॥ 14-33-16(93296)
एतां बुद्धिं समाश्रित्य ममत्वं वर्जितं मया।
शृणु बुद्धिं च यां ज्ञात्वा सर्वत्र विषयो मम॥ 14-33-17(93297)
नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि।
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा॥ 14-33-18(93298)
नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः।
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा॥ 14-33-19(93299)
नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषः।
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा॥ 14-33-20(93300)
नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये।
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा॥ 14-33-21(93301)
नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि।
आकाशं मे जितं तस्माद्वशे तिष्ठति नित्यदा॥ 14-33-22(93302)
नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे।
मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा॥ 14-33-23(93303)
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह।
इत्यर्थं सर्व एवेति समारम्भा भवन्ति वै॥ 14-33-24(93304)
ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत्।
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम्॥ 14-33-25(93305)
त्वमस्य ब्रह्मिनाभस्य दुर्वारस्यानिवर्तिनः।
सत्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः॥ ॥ 14-33-26(93306)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि त्र्यस्त्रिंशोऽध्यायः॥ 33 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-33-1 अत्र लोभे निकृन्तनीये॥ 7-33-2 क्लान्तं कस्मिंश्चिदागमे इति द.पाठः॥ क्षान्तं कस्मिंश्चिदागमे इति क.ठ.थ.पाठः। शिष्यार्थमब्रवीदिति पाठान्तरम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|